|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.105. अध्यायः 105
Mahabharata - Drona Parva - Chapter Topics
सञ्जयेन रथानां ध्वजवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-105-0x(4531)(48863)
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय॥ 7-105-1(48864)
सञ्जय उवाच। 7-105-2x(4532)
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्।
रूपतो वर्णतश्चैव नामतश्च निबोध मे॥ 7-105-2(48865)
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः॥ 7-105-3(48866)
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः॥ 7-105-4(48867)
अनेकवर्णा विविधा ध्वजाः परमशोभनाः।
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः।
नानावर्णविराणाभिः शुशुभुः सर्वतो वृताः॥ 7-105-5(48868)
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः।
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः॥ 7-105-6(48869)
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ।
दोधूयमाना रथिनां शोभयन्ति महारथान्॥ 7-105-7(48870)
सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः।
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत॥ 7-105-8(48871)
स वानरध्वजो राजन्पताकाभिरलङ्कृतः।
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः॥ 7-105-9(48872)
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत।
ध्वजाघ्रं समपश्याम बालसूर्यसमप्रभम्॥ 7-105-10(48873)
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम्।
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम्॥ 7-105-11(48874)
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः।
आहवे खं महाराज ददृशे पूरयन्निव॥ 7-105-12(48875)
पताकी काञ्चनः स्रग्वी ध्वजः कर्णस्य संयुगे।
नृत्यतीव रथोपस्थे श्वसनेन समीरितः॥ 7-105-13(48876)
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः।
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः॥ 7-105-14(48877)
स तेन भ्राजते राजन्गोवृषेण महारथः।
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता॥ 7-105-15(48878)
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्।
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमुपशोभयन्॥ 7-105-16(48879)
तेन तस्य रथो भाति मयूरेण महात्मनः।
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता॥ 7-105-17(48880)
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव।
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम्॥ 7-105-18(48881)
सा सीता भ्राजते तस्य रथमास्थाय मारिष।
सर्वबीजविरूढेव यथा सीता श्रिया वृता॥ 7-105-19(48882)
वराहः सिन्धुराजस्य राजतोऽभिविराजते।
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः॥ 7-105-20(48883)
शुशुभे केतुना तेन राजतेन जयद्रथः।
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते॥ 7-105-21(48884)
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः।
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते॥ 7-105-22(48885)
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते।
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः॥ 7-105-23(48886)
शलस्य तु महाराज राजतो द्विरदो महान्।
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः॥ 7-105-24(48887)
स केतुः शोभयामास सैन्यं ते भरतर्षभ।
यथा श्वेतो महानागो देवराजचमूं तथा॥ 7-105-25(48888)
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः।
किङ्किणीशतसंहादो भ्राजंश्चित्रो रथोत्तमे॥ 7-105-26(48889)
व्यभ्राजत भृशं राजन्पुत्रस्तव विशाम्पते।
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा॥ 7-105-27(48890)
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः।
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः॥ 7-105-28(48891)
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः।
अदीप्यतार्जुनो येन हिमवानिव शम्भुना॥ 7-105-29(48892)
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः।
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः॥ 7-105-30(48893)
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः।
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव॥ 7-105-31(48894)
तवापराधाद्राजानो निहता बहुशो युधि।
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः॥ 7-105-32(48895)
तेषामासीद्व्यातिक्षेपो गजर्तामितरेतरम्।
दुर्योधनमुखानां च पाण्डूनामृषभस्य च॥ 7-105-33(48896)
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः।
यदेको बहुभिः सार्घं समागच्छदभीतवत्॥ 7-105-34(48897)
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः।
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम्॥ 7-105-35(48898)
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः।
अदृश्यांस्तावकान्योधान्प्रचक्रे शत्रुतापनः॥ 7-105-36(48899)
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः।
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः॥ 7-105-37(48900)
संवृते नरसिंहैस्तु कूरूणामृषभेऽर्जुने।
महानासीत्समुद्भूतस्तस्य सैन्यस्य निःस्वनः॥ ॥ 7-105-38(48901)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः॥ 105 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-105-2 रूपमाकारः॥ 5-105-10 ध्वजाग्रं ध्वजमुख्यम्॥ 5-105-11 काञ्चनम् काञ्चनमयम्॥ 5-105-16 व्याहरिष्यन्वदिष्यन्॥ 5-105-33 व्यतिक्षेपः अन्योन्याभिघातः॥ 5-105-105 पञ्चाधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|